अमरकोशः


श्लोकः

विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विश्वंभर विश्वंभरः पुंलिङ्गः विश्वं बिभर्ति । तत्पुरुषः समासः अकारान्तः
2 कैटभजित् कैटभजित् पुंलिङ्गः कैटभमजैषीत् । तत्पुरुषः समासः तकारान्तः
3 विधु विधुः पुंलिङ्गः विध्यत्यसुरान् । कु उणादिः उकारान्तः
4 श्रीवत्सलाञ्छन श्रीवत्सलाञ्छनः पुंलिङ्गः श्रीयुक्तो वत्सः श्रीवत्सो महत्वलक्षणं श्वेतरोमावर्तविशेषो लाञ्छनं यस्य । बहुव्रीहिः समासः अकारान्तः
5 वसुदेव वसुदेवः पुंलिङ्गः वसुषु दीव्यति । तत्पुरुषः समासः अकारान्तः
6 आनकदुन्दुभि आनकदुन्दुभिः पुंलिङ्गः बहुव्रीहिः समासः इकारान्तः