श्रीवत्सलाञ्छनः

सुधाव्याख्या

वदति महत्त्वम् । ‘वृ-तॄ-वदि-वचि-वसि-हनि-कमि-कषिभ्यः सः (उ० ३.६२) वत्सः । श्रीयुक्तो वत्सः श्रीवत्सो महत्वलक्षणं श्वेतरोमावर्तविशेषो लाञ्छनं यस्य । ‘शौरिश्रीवतसदैत्यारि विष्वक्सेनजनार्दनाः’ इति शब्दार्णवात् । ’श्रीवत्सः’ अपि ॥


प्रक्रिया

वद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वद्+स - ‘वृ-तॄ-वदि-वचि-वसि-हनि-कमि-कषिभ्यः सः (३.६२) । उणादिसूत्रम् ।
वत्स - खरि च 8.4.55
श्रीवत्स+सु लाञ्चन+सु - अनेकमन्यपदार्थे 2.2.24
श्रीवत्सलाञ्चन - सुपो धातुप्रातिपदिकयोः 2.4.71
श्रीवत्सलाञ्चन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रीवत्सलाञ्चन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रीवत्सलाञ्चन + रु - ससजुषो रुः 8.2.66
श्रीवत्सलाञ्चन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रीवत्सलाञ्चनः - खरवसानयोर्विसर्जनीयः 8.3.15