विश्वंभरः

सुधाव्याख्या

विश्वं बिभर्ति । 'संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । अरुर्द्विषद्-’ (६.३.६७) इति मुम् । विश्वम्भरोऽच्युते शक्रे पुंसि, विश्वम्भरा भुवि ॥


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
विश्व+अम् भृ - उपपदमतिङ् 2.2.19
विश्व+भृ - सुपो धातुप्रातिपदिकयोः 2.4.71
विश्व+भृ+खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
विश्व+भृ+अ - लशक्वतद्धिते 1.3.8, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विश्व+भर्+अ - सार्वधातुकार्धधातुकयोः 7.3.84
विश्व+मुम्+भर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
विश्व+म्+भर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विश्वंभर - नश्चापदान्तस्य झलि 8.3.24
विश्वंभर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विश्वंभर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वंभर + रु - ससजुषो रुः 8.2.66
विश्वंभर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वंभरः - खरवसानयोर्विसर्जनीयः 8.3.15