अमरकोशः


श्लोकः

वीणादण्ड: प्रवाल: स्यात् ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीणादण्ड वीणादण्डः पुंलिङ्गः वीणाया दण्डः । तत्पुरुषः समासः अकारान्तः
2 प्रवाल प्रवालः पुंलिङ्गः प्रकर्षेण वल्यते संव्रियते । घञ् कृत् अकारान्तः
3 ककुभ ककुभः पुंलिङ्गः कं वातं स्कुभ्नाति । कः कृत् अकारान्तः
4 प्रसेवक प्रसेवकः पुंलिङ्गः प्रसेव्यते । क्वुन् उणादिः अकारान्तः
5 कोलम्बक कोलम्बकः पुंलिङ्गः अस्या वीणायाः काय: अलाबुदण्डककुभसमुदायस्तन्त्रीरहित: । अम्बच् बाहुलकात् अकारान्तः
6 उपनाह उपनाहः पुंलिङ्गः उपनह्यतेऽनेनास्मिन् वा । घञ् कृत् अकारान्तः
7 निबन्धन निबन्धनम् नपुंसकलिङ्गः निबध्यतेऽनेनास्मिन्वा । ल्युट् कृत् अकारान्तः