ककुभः

सुधाव्याख्या

ककुभ इति । कं वातं स्कुभ्नाति । स्कुभेः सौत्रान्मूल विभुजादित्वात् (३.२.५) कः । पृषोदरादित्वात्सलोपः (६.३.१०९) । यद्वा कश्च कुश्च ककू । ते भाति । ‘भा दीप्तौ’ (अ० प० अ०) अन्तर्भावितण्यर्थः । आतोऽनुप-' (३.२.३) इति कः । 'ककुभो रागभेदेऽपि वीणाङ्केऽर्जुनपादपे’