उपनाहः

सुधाव्याख्या

उपनाह इति । उपनह्यतेऽनेनास्मिन् वा । ‘णह बन्धने’ (दि० उ० अ०) । हलश्च’ (३.३.१२१) इति घञ् । ‘उपनाहो व्रणालेपपिण्डे वीणानिबन्धने’ ।