कोलम्बकः

सुधाव्याख्या

कोलम्बक इति । अस्या वीणायाः काय: अलाबुदण्डककुभसमुदायस्तन्त्रीरहित: । ‘कुल संस्त्याने’ (भ्वा० प० से०) । बाहुलकादम्बच् । ततः कन् (५.३.९७) । यद्वा कुलेर्विच् (३.२.७५) । अम्बते । अम्ब्यते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । ण्वुल् (३.२.१३३) । क्वुन् (उ० ३.३२) वा । कोल् चासावम्बवश्च ॥