अमरकोशः


श्लोकः

मध्यम: स्याद्विहसितं रोमाञ्चो रोमहर्षणम् । क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विहसित विहसितम् नपुंसकलिङ्गः स हासो मध्यमो महत्त्वाल्पत्वहीनः । क्तः कृत् अकारान्तः
2 रोमाञ्च रोमाञ्चः पुंलिङ्गः रोम्णामञ्चनं पूजनम् । घञ् कृत् अकारान्तः
3 रोमहर्षण रोमहर्षणम् नपुंसकलिङ्गः रोम्णां हर्षणम् ॥ तत्पुरुषः समासः अकारान्तः
4 क्रन्दित क्रन्दितम् नपुंसकलिङ्गः क्तः कृत् अकारान्तः
5 रुदित रुदितम् नपुंसकलिङ्गः क्तः कॄदन्तः अकारान्तः
6 क्रुष्ट क्रुष्टम् नपुंसकलिङ्गः क्तः कृत् अकारान्तः
7 जृम्भ जृम्भः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अः कृत् अकारान्तः
8 जृम्भण जृम्भणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः