रोमाञ्चः

सुधाव्याख्या

रोमाञ्च इति । रोम्णामञ्चनं पूजनम् । घञ् (३.३.१८) । चजोः-(७,४.५२) इति सूत्रे निष्ठायामनिटः’ इति पूरितत्वादस्मात्तु ‘अञ्चेः पूजायाम्’ (७.२.५३) इति क्त्वानिष्ठयोरिविधानान्न कुत्वम् । यत्तु न क्वादेः (७.३.५९) इति योगविभागान्न कुत्वम् इति भाषावृत्त्युपन्यसनं मुकुटस्य । तन्न । तस्य वार्तिककृता (‘निष्ठायामनिटः’ इति वार्तिकेन) प्रत्याख्यानात् । यथोत्तरं मुनीनां प्रामाण्यात् ॥