जृम्भः

सुधाव्याख्या

जृम्भ इति । 'जृभि गात्रविनामे' (भ्वा० आ० से०) । घञ् (३.३.१८) । 'गुरोश्च-'(३.३.१०३) इत्यः । जृम्भा विकासजृम्भणयोस्त्रिषु । घञन्तस्यैव क्लीबत्वमपि । 'लिङ्गशेष विधिर्व्यापी विशेषैर्यद्यबाधितः’ इति वक्ष्यमाणत्वात् । यत्तु - जृम्भं तु, अज्विधौ भयादिपाठात् इति मुकुटेनोक्तम् । तन्न । 'अज्विधौ इत्युक्तत्वेन क्लीबत्वस्याविधानात् ।