क्रन्दितम्

सुधाव्याख्या

पुलक-कण्टक-रोम-विक्रिया-रोमोद्गमाश्चात्रैव (पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । अस्रुराज्यां मणिदोषे चषके तालके कृमौ' । (‘कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाङ्के रोमाञ्चे । पुलकः पुनः । रोमाञ्चकण्टकौ रोमविक्रिया रोमहर्षणम् । रोमोद्गम उद्धर्षणमुल्लासनकमित्यपि' । इति हैमात्) । क्रन्दितमिति । ‘क्रदि रोदने’ (भ्वा० प० से०) । क्तः (३.३.११४) । अथ क्रन्दितमाह्वाने रुदिते च नपुंसकम्'