अमरकोशः


श्लोकः

काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैः त्रयस्त्रिषु ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काकली काकली स्त्रीलिङ्गः ईषत्कलः काकली । इन् उणादिः ईकारान्तः
2 कल कलः पुंलिङ्गः स चासावस्फुटोऽव्यक्ताक्षरश्च । तादृशे ध्वनौ कल: । घः कृत् अकारान्तः
3 मन्द्र मन्द्रः पुंलिङ्गः गम्भीरे मेघादिध्वनौ । रक् उणादिः अकारान्तः
4 तार तारः पुंलिङ्गः तारयति अतिक्रामत्यन्याञ्शब्दान् । अच् कृत् अकारान्तः