मन्द्रः

सुधाव्याख्या

मन्द्र इति । गम्भीरे मेघादिध्वनौ । मन्दते । 'मदि स्तुत्यादौ (भ्वा० अ० से०) । ‘स्फायि-' (उ० २.१३) इति रक् । (१)


प्रक्रिया

धातुः - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु


मद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्द् - इदितो नुम् धातोः 7.1.58
मन्द् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
मन्द् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मन्द्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मन्द्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्द्र + रु - ससजुषो रुः 8.2.66
मन्द्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्द्रः - खरवसानयोर्विसर्जनीयः 8.3.15