कलः

सुधाव्याख्या

स चासावस्फुटोऽव्यक्ताक्षरश्च । तादृशे ध्वनौ कल: । 'कड मदे (भ्वा० प० से०) । कडति माद्यत्यनेन । 'हलश्च' (३.३.१२१) इति घञ् । संज्ञापूर्वकत्वाद् वृद्ध्यभावः । डलयोरेकत्वस्मरणम् । यद्वा कलनम् । ‘कल संख्याने (भ्वा० आ० से०) । ‘खनो घ च’ (३.३.१२५) इति घः । यद्वा कलते । पचाद्यच् (३.१.१३४) । 'कला स्यान्मूलरै वृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः । कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ ।