काकली

सुधाव्याख्या

काकलीति । ईषत्कलः काकली । ‘ईषदर्थे च' (६.३.१०५) इति कोः कादेशः । गौरादित्वात् (४.१.४१) डीष् । अन्ये तु - कलेः (भ्वा० आ० से०) इन् । (उ० ४.११८) कलिः शब्द ईषदत्रेति काकलिः । ततः कृदिकारात् - (ग० ४.१.४५) इति ङीष् । अत एव ‘साधूदितं काकलिभिः कुलीनैः इत्यभिनन्दप्रयोगः संगच्छते – इत्याहुः ।