अमरकोशः


श्लोकः

क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा । अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षान्ति क्षान्तिः स्त्रीलिङ्गः झमणम् । क्तिन् कृत् इकारान्तः
2 तितिक्षा तितिक्षा स्त्रीलिङ्गः सन् धातुवृत्तिः आकारान्तः
3 अभिध्या अभिध्या स्त्रीलिङ्गः अभिध्यानम् । अङ् कृत् आकारान्तः
4 अक्षान्ति अक्षान्तिः स्त्रीलिङ्गः न क्षमणम् । नञ् समासः समासः इकारान्तः
5 ईर्ष्या ईर्ष्या स्त्रीलिङ्गः ईर्ष्यणम् । अः कृत् आकारान्तः
6 असूया असूया स्त्रीलिङ्गः असूयनम् । अः कृत् आकारान्तः