अभिध्या

सुधाव्याख्या

अभिध्येति । अभिध्यानम् । ‘ध्यै आध्याने’ (भ्वा० आ० से०) । 'आतश्च' (३.३.१०६) इत्यङ् । परस्य विषये चौर्यादिना स्पृहा । ‘परस्वविषयस्पृहा' इति पाठे परस्वे विषयेण चौर्यादिना लिप्सा–इति मुकुटः । वस्तुतस्तु-परस्वविषयविषयिणीच्छेत्यर्थः ।