तितिक्षा

सुधाव्याख्या

तिजेः (भ्वा० आ० से०) । क्षमायां सन् (३.१.१५) । तदन्तादप्रत्यये (३.३.१०२) टाप् (४.१.४) ।


प्रक्रिया

धातुः - तिजँ निशाने क्षमायाम् च


तिज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिज् + सन् - कर्मणः रोमन्थतपोभ्यां वर्तिचरोः 3.1.15
तिज् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तिज् +तिज् + स - सन्यङोः 6.1.9
ति + तिज् + स - हलादिः शेषः 7.4.60
ति + तिग् + स - चोः कुः 8.2.30
तितिक् + स - खरि च 8.4.55
तितिक् + ष - आदेशप्रत्यययोः 8.3.59
तितिक्ष + अ - अ प्रत्ययात्‌ 3.3.102
तितिक्ष - अतो लोपः 6.4.48
तितिक्ष + टाप् - अजाद्यतष्टाप्‌ 4.1.4
तितिक्ष + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तितिक्षा - अकः सवर्णे दीर्घः 6.1.101
तितिक्षा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तितिक्षा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तितिक्षा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68