क्षान्तिः

सुधाव्याख्या

क्षान्तिरिति । झमणम् । ‘क्षमू सहने’ दिवादि: । अस्याषित्वा क्तिन् (३.३.९४) ‘अनुनासिकस्य क्वि-' (६.४.१५) इति दीर्घ: । भ्वादेस्तु षित्वात् अङ् (३.३.१०४) । तदुक्तम् ‘अषितः क्षाम्यते: क्षान्तिः षितस्तु क्षमतेः क्षमा’ इति । ('क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा क्षान्तौ क्षितौ’ इति हैमः)