अमरकोशः


श्लोकः

अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे । हण्डे हञ्जे हलाह्वानं नीचां चेटीं सखीं प्रति ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अत्तिका अत्तिका स्त्रीलिङ्गः अत्ता माता । कन् आकारान्तः
2 निष्ठा निष्ठा स्त्रीलिङ्गः नियतं स्थानम् । अङ् कृत् आकारान्तः
3 निर्वहण निर्वहणम् नपुंसकलिङ्गः निर्वाहो निर्वहणम् । अकारान्तः
4 हण्डे हण्डे स्त्रीलिङ्गः नीचां प्रत्याह्वानं हण्डे । एकारान्तः
5 हञ्जे हञ्जे स्त्रीलिङ्गः हञ्जे इत्यत्र डस्य जोऽपि ॥ एकारान्तः
6 हला हला स्त्रीलिङ्गः हलति । बाहुलकात् आकारान्तः