निर्वहणम्

सुधाव्याख्या

निर्वाहो निर्वहणम् । मुखप्रतिमुखगर्वविमर्शनिर्वहणाख्या: पञ्च नाटके संधयः । तत्र पञ्चमस्य संधर्द्वे । प्रस्तुतकथासमापनस्येत्यन्ये । निर्वहणं तु निष्ठा स्त्री संहारश्च समापने’ इति शब्दार्णवः । समे इति । समानार्थे, न तु समानलिङ्गे । शब्दार्णवे लिङ्गभेददर्शनात् । निष्ठा निर्वहणे वर्तते, इति योजना