निष्ठा

सुधाव्याख्या

निष्ठेति । नियतं स्थानम् । निष्ठा । ‘आतश्चोपसर्गे (३.३.१०६) इत्यङ् । ‘उपसर्गात्सुनोति-' (८.३.६५) इति षः। निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥