अमरकोशः


श्लोकः

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः । अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अब्रह्मण्य अब्रह्मण्यम् नपुंसकलिङ्गः वधं नार्हति यत् तद्धितः अकारान्तः
2 राष्ट्रिय राष्ट्रियः पुंलिङ्गः राष्ट्रेऽधिकृत: । तद्धितः अकारान्तः
3 अम्बा अम्बा स्त्रीलिङ्गः अम्ब्यते शब्द्यते । कृत् आकारान्तः
4 वासू वासूः स्त्रीलिङ्गः बाला कुमारी वासूः वास्यते स्वगृहे । णिच् बाहुलकात् ऊकारान्तः
5 आर्य आर्यः पुंलिङ्गः अर्तुं योग्यः । ण्यत् कृत् अकारान्तः