आर्यः

सुधाव्याख्या

आर्य इति । अर्तुं योग्यः । 'ऋ गतौ’ (भ्वा० प० अ०) । 'ऋहलोण्यत्’ (३.१.१२४) । ‘कर्तव्यमाचरन्काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः’ इति वसिष्ठः । (‘आर्या सज्जनसौविदौ') । मर्षणात्सहनात् मारिषः । पृषोदरादिः (६.३.१०९) । हिंसानिवारकत्वाद्वा । रिष हिंसायाम् (भ्वा० प० से०) । ‘इगुपध-'(३.१.१३५) इति कः । प्रतिषेधार्थकमाशब्देन समासः । ‘मारिषः शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषित:’ इति मूर्धन्यान्ते रभसः । मार्षश्च । ‘आर्ये मारिष मार्षकौ इति शब्दार्णत्वात् । ‘मारिष: शाकभिद्यार्ये नाट्योक्त्या पुंसि, योषिति । दक्षाम्बायाम् ।