अम्बा

सुधाव्याख्या

अम्बेति । अम्ब्यते शब्द्यते । ‘अबि शब्दे’ (भ्वा० आ० से०) । गुरोश्च हलः (३.३.१०३) इत्यः । 'नाट्योक्तौ’ इत्यधिकारस्य प्रायिकत्वादम्बादीनां केषांचिदन्यत्रापि प्रयोगः । एकम् आतुः ।