अमरकोशः


श्लोकः

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ब्राह्मी ब्राह्मी स्त्रीलिङ्गः ब्रह्मणः इयम् । अण् तद्धितः ईकारान्तः
2 भारती भारती स्त्रीलिङ्गः बिभर्ति । अतच् उणादिः ईकारान्तः
3 भाषा भाषा स्त्रीलिङ्गः भाष्यते। कृत् आकारान्तः
4 गिर् गीः स्त्रीलिङ्गः गृणन्त्येताम् । क्विप् कृत् रेफान्तः
5 वाच् वाक् स्त्रीलिङ्गः उच्यते । क्विप् कृत् चकारान्तः
6 वाणी वाणी स्त्रीलिङ्गः वण्यते । इञ् कृत् ईकारान्तः
7 सरस्वती सरस्वती स्त्रीलिङ्गः सरोऽस्त्यस्याः । मतुप् तद्धित ईकारान्तः
8 व्याहार व्याहारः पुंलिङ्गः व्याहरणम् । घञ् कृत् अकारान्तः
9 उक्ति उक्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
10 लपित लपितम् नपुंसकलिङ्गः क्तः कृत् अकारान्तः
11 भाषित भाषितम् नपुंसकलिङ्गः भाषणं भाषितम् । क्तः कृत् अकारान्तः
12 वचन वचनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
13 वचस् वचः नपुंसकलिङ्गः असुन् उणादिः सकारान्तः