भारती

सुधाव्याख्या

बिभर्ति । ‘भॄमृदृशि-' (उ० ३.११०) इत्यतच् । ततः प्रज्ञाद्यणि (५.४.३८) । डीप् (४.१.१५ ॥ भरतस्येयमिति वा । अथ भारती । वचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः ।।


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
भृ अतच् - भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् (३.११०) । उणादिसूत्रम् ।
भृ + अत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भर् + अत - सार्वधातुकार्धधातुकयोः 7.3.84
भरत + अण् - प्रज्ञादिभ्यश्च 5.4.38
भरत + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भरत् + अ - यस्येति च 6.4.148
भारत - तद्धितेष्वचामादेः 7.2.117
भारत + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
भारत + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भारत् + ई - यस्येति च 6.4.148
भारती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भारती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भारती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68