अमरकोशः


श्लोकः

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चित्र चित्रम् पुंलिङ्गः, नपुंसकलिङ्गः चीयते । क्रः उणादिः अकारान्तः
2 किर्मीर किर्मीरः पुंलिङ्गः ईरन् अकारान्तः
3 कल्माष कल्माषः पुंलिङ्गः कलयति । क्विप् कृत् अकारान्तः
4 शबल शबलः पुंलिङ्गः शपत्याक्रोशति वर्णान् । कलः उणादिः अकारान्तः
5 एत एतः पुंलिङ्गः एति वर्णान् । तन् उणादिः अकारान्तः
6 कर्बुर कर्बुरः पुंलिङ्गः बवयोरभेदात्कर्बुरः । कुरच् उणादिः अकारान्तः