कल्माषः

सुधाव्याख्या

कलयति । क्विप् (३.२.१७८) । कल् । माषयत्यभिभवति वर्णान् । माषः । मष हिंसायाम्' (भ्वा० प० से०) । ‘हन्त्यर्थाश्च' इति चुरादौ पाठात् णिच् । कल् चासौ माषश्च । कल्माषः । ‘कर्बुरे कृष्णे' इति मूर्धन्यान्ते रभसः । ‘कल्माषो राक्षसे कृष्णे शबलेऽपि इति हैम: ।


प्रक्रिया

धातुः - कल गतौ सङ्ख्याने च , मषँ हिंसायाम्


कल गतौ सङ्ख्याने च
कल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
कल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कल् + इ + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
कल् + क्विप् - णेरनिटि 6.4.51
कल् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कल् - वेरपृक्तस्य 6.1.67
मषँ हिंसायाम्
मष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मष् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
मष् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
माष् + इ- - अत उपधायाः 7.2.116
माष् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
माष् + अच् - णेरनिटि 6.4.51
माष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कल् + सु + माष + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कल्माष - सुपो धातुप्रातिपदिकयोः 2.4.71
कल्माष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कल्माष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल्माष + रु - ससजुषो रुः 8.2.66
कल्माष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कल्माषः - खरवसानयोर्विसर्जनीयः 8.3.15