चित्रम्

सुधाव्याख्या

चीयते । ‘चिञ् चयने’ (भ्वा० उ० अ०) । अमिचिमिदि-' (उ० ४.१६४) इति क्रः । चित्तं त्रायते वा । । त्रैङ् पालने' (भ्वा० आ० अ०) । कः (३.२.३) । 'चित्रकिर्मीर-' इति समासमकृत्वा पृथग्रूपभेददर्शनं ‘गुणे शुक्लादयः पुंसि' इत्यस्य बाधनार्थम् । ‘चित्राखुपर्णीगोडुम्बासु भद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गम् । नामलिङ्गानुशासने तु नानार्थपुंस्काण्डेऽयं पठितः । तदनुरोधेनेहापि ‘चित्रकिर्मीर-’ इति समस्तं केचित्पठन्ति ।