कर्बुरः

सुधाव्याख्या

‘कर्ब हिंसायाम् (भ्वा० प० से०) । मद्गुरादयश्च' (उ० १.४१) इति निपातनात्कुरच् । बवयोरभेदात्कर्बुरः । ‘कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ।