अमरकोशः


श्लोकः

रोहितो लोहितो रक्त: शोण: कोकनदच्छवि: । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रोहित रोहितः पुंलिङ्गः लोहितो मङ्गले नदे । इतन् उणादिः अकारान्तः
2 लोहित लोहितः पुंलिङ्गः इतन् उणादिः अकारान्तः
3 रक्त रक्तः पुंलिङ्गः रजति स्म । क्तः कृत् अकारान्तः
4 शोण शोणः पुंलिङ्गः शोणयति । अच् कृत् अकारान्तः
5 कोकनदच्छवि कोकनदच्छविः पुंलिङ्गः कोकनदं रक्तोत्पलमिव छविर्यस्य । समासः इकारान्तः
6 अव्यक्तराग अव्यक्तरागः पुंलिङ्गः अव्यक्तो रागो यस्य । समासः अकारान्तः
7 अरुण अरुणः पुंलिङ्गः ऋच्छति । उनन् उणादिः अकारान्तः
8 श्वेतरक्त श्वेतरक्तः पुंलिङ्गः श्वेतेति । अकारान्तः
9 पाटल पाटलः पुंलिङ्गः पाटयति । कलच् उणादिः अकारान्तः