अरुणः

सुधाव्याख्या

ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अर्तेरुनन् (उ० ३.६०) । ‘अरुणः कृष्णलोहितः’ इत्यमरमाला । अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना, गुणिनि त्रिषु । अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च' ।