पाटलः

सुधाव्याख्या

पाटयति । ‘पट गतौ ' (भ्वा० प० से०) । ण्यन्ताद्वृषादित्वात् (उ० १.१०६) कलच् । पाटलाकुसुमाभः पाटलः । ‘पाटलं तु कुङ्कुमश्वेतरक्तयोः । पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे’ इति हैमः ।