रक्तः

सुधाव्याख्या

रजति स्म । 'रञ्ज रागे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । यद्वा रच्यते स्म । ‘रच प्रतियत्ने’ (चु० उ० से०) । अनित्यण्यताश्चुरादयः’ इति णिजभावे क्तः (३.२.१०२) । अतो लोपः (६.४.४८) । ‘चोः कुः (८.२.३०) । ‘रक्तं नील्यादिरञ्जिते । कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे’ इति हैमः ।