अमरकोशः


श्लोकः

स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर्वसंधि पर्वसंधिः पुंलिङ्गः प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव पर्व अपि । तत्पुरुषः समासः इकारान्तः
2 पक्षान्त पक्षान्तौ स्त्रीलिङ्गः द्वे पञ्चदश्यौ पूर्णिमामावास्ये पक्षस्यान्तौ । तत्पुरुषः समासः अकारान्तः
3 पौर्णमासी पौर्णमासी स्त्रीलिङ्गः पूर्णो मासोऽस्याम । बहुव्रीहिः समासः ईकारान्तः
4 पूर्णिमा पूर्णिमा स्त्रीलिङ्गः पूर्णं चन्द्रस्य पूरणम् । तेन निर्वृत्ता पूर्णिमा । इमप् तद्धितः आकारान्तः