पर्वसंधिः

सुधाव्याख्या

स इति । प्रतिपत्पञ्चदश्योर्यदन्तरम् स संधिः । स एव पर्व अपि । ‘प्रतिपत्पञ्चदश्योस्तु संधिः पर्व प्रदिक् ककुप्’ इति दुर्गः । ‘संधिमभितो यजेत्’ इत्यादौ प्रसिद्धः स एव । ‘पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि' ।