पौर्णमासी

सुधाव्याख्या

पौर्णेति । पूर्णो मासोऽस्याम् । बहुव्रीहौ कृते स्वार्थेऽण् । प्रज्ञादेः (५.४.३८) आकृतगणत्वात् । 'सास्मिन्पौर्णमासी’ (४.२.२१) इति निर्देशाद्वा । यद्वा माश्चन्द्रः । पूर्णो माः पूर्णमा: । तस्येयम् । यद्वा 'महाराजप्रोष्ठपदाट्ठञ्' (४.२.३५) इति सूत्रे 'तदस्मिन्वर्तते’ इत्यर्थे पूर्णमासादण:’ उपसंख्यानादण् । ('पौर्णमासः पुमान्यज्ञभेदे स्त्री पूर्णिमातिथौ') ॥


प्रक्रिया

पूर्णा + सु + मास + सु - अनेकमन्यपदार्थे 2.2.24
पूर्णमास - सुपो धातुप्रातिपदिकयोः 2.4.71
पूर्णमास + अण् - प्रज्ञादिभ्यश्च 5.4.38
पूर्णमास + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पूर्णमास् + अ - यस्येति च 6.4.148
पौर्णमास - तद्धितेष्वचामादेः 7.2.117
पौर्णमास + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
पौर्णमास + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पौर्णमास् + ई - यस्येति च 6.4.148
पौर्णमासी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पौर्णमास् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पौर्णमासी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68