पूर्णिमा

सुधाव्याख्या

'पूरी आप्यायने' (दि० आ० से०) । भावे क्तः (३.३.११४) । पूर्णं चन्द्रस्य पूरणम् । तेन निर्वृत्ता पूर्णिमा । भावप्रत्ययान्तात् तेन निर्वृत्तम्' इत्यर्थ इमप् (वा० ४.४.२०) । टाप् (४.१. ४) ।


प्रक्रिया

धातुः - पूरीँ आप्यायने


पूर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पूर् + क्त - नपुंसके भावे क्तः 3.3.114
पूर् + त - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पूर् + न - रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42
पूर्ण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
पूर्ण + इमप् - भावप्रत्ययान्तादिमब्वक्तव्यः (४.४.२०) । वार्तिकम् ।
पूर्ण + इम - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पूर्ण् + इम - यस्येति च 6.4.148
पूर्णिम + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पूर्णम + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पुर्णिमा - अकः सवर्णे दीर्घः 6.1.101
पूर्णिमा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पूर्णिमा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पूर्णिमा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68