अमरकोशः


श्लोकः

ते तु त्रिंशदहोरात्र: पक्षस्ते दश पञ्च च । पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अहोरात्र अहोरात्रः पुंलिङ्गः, नपुंसकलिङ्गः अहश्च रात्रिश्च तयोः समाहारः । द्वन्दः समासः अकारान्तः
2 पक्ष पक्षः पुंलिङ्गः पक्ष्यते । घञ् कृत् अकारान्तः
3 शुक्ल शुक्लः पुंलिङ्गः शुक्लपक्षः पूर्वसंज्ञः । रन् उणादिः अकारान्तः
4 कृष्ण कृष्णः पुंलिङ्गः कृष्णपक्षोऽपरसंज्ञः । नक् उणादिः अकारान्तः
5 मास मासः पुंलिङ्गः मस्यते परिमीयतेऽयम्, अनने वा । घञ् कृत् अकारान्तः