पक्षः

सुधाव्याख्या

तेऽहोरात्राः । पक्ष्यते । पक्ष परिग्रहे' (भ्वा०, चु० प० से०) । कर्मणि घञ् (३.३.१९) । पक्षो मासार्धके गेहे पार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः ।