कृष्+नक् |
- कृषेर्वर्णे (३.४) । उणादिसूत्रम् । |
कृष्+न |
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9 |
कृष्ण |
- रषाभ्यां नो णः समानपदे 8.4.1 |
कृष्ण+मतुप् |
- तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 |
कृष्ण |
- गुणवचनेभ्यो मतुपो लुक् (५.२.९४) । वार्तिकम् । |
कृष्ण + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
कृष्ण + स् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
कृष्ण + रु |
- ससजुषो रुः 8.2.66 |
कृष्ण + र् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
कृष्णः |
- खरवसानयोर्विसर्जनीयः 8.3.15 |