अहश्च रात्रिश्च तयोः समाहारः । 'अहःसर्वैकदेश-'(५.४.८७) इत्यच् । ‘रात्राह्नाहाः पुंसि (२.४.२९) । यत्तु- ‘अह्ना सहिता रात्रिः’ इति विग्रहं प्रदर्श्य अहोरात्रः-' इत्युपन्यस्तं मुकुटेन । तन्न । तथा सत्यजभावप्रसङ्गात् । अहःपूर्वाद्रात्रिशब्दाद्वन्द्व एवाज्विधानात् ‘गणरात्रवदज्’ इति दृष्टान्तोऽप्यसम्मतः । चकारात्संख्याव्ययादेरप्यज्विधानात् । अत्र तदादित्वाभावात् यदपि समाहारे क्लीबमप्यहोरात्रम् - इत्युक्तम् । तदपि न । समाहारेऽपि ‘रात्राह्नाहाः पुंसि' (२.४.२९) इत्यनेन परत्वात्पुंस्त्वविधानात् । यदपि वामनलिङ्गानुशासने द्विगुरपि पात्राद्यदन्त:’ इति नपुंसकत्वेन ‘अहोरात्रं द्विरात्रम्' इत्युदाहृतम् - इति संमतिप्रदर्शनं कृतम् । तदपि न । ’रात्रं प्राक्संख्ययान्वितम्’ इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य तदयोगात् ।