अमरकोशः


श्लोकः

वैशाखे माधवो राधो ज्यैष्ठे शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैशाख वैशाखः पुंलिङ्गः विशाखया युक्ता पौर्णमास्यस्मिन्नस्ति । अण् तद्धितः अकारान्तः
2 माधव माधवः पुंलिङ्गः मधु मकरन्दः । सोऽस्मिन्नस्ति । तद्धितः अकारान्तः
3 राध राधः पुंलिङ्गः राधा विशाखा । तद्वती पौर्णमासी राधी । सास्मिन्नस्ति । अण् तद्धितः अकारान्तः
4 ज्यैष्ठ ज्यैष्ठः पुंलिङ्गः पूर्ववदण्द्वयेन ज्यैष्ठः । अण् तद्धितः अकारान्तः
5 शुक्र शुक्रः पुंलिङ्गः विरहिणः शोचन्त्यस्मिन् । रक् उणादिः अकारान्तः
6 शुचि शुचिः पुंलिङ्गः शोचन्ति विरहिणोऽस्मिन् । इन् उणादिः इकारान्तः
7 आषाढ आषाढः पुंलिङ्गः अषाढया युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
8 श्रावण श्रावणः पुंलिङ्गः श्रवणेन युक्ता पौर्णमासी श्रवणा । अण् तद्धितः अकारान्तः
9 नभस् नभः पुंलिङ्गः विरहिणो नभ्यति, नभ्नाति, नभते, वा नभाः । असुन् उणादिः सकारान्तः
10 श्रावणिक श्रावणिकः पुंलिङ्गः ठक् तद्धितः अकारान्तः