श्रावणः

सुधाव्याख्या

श्रावण इति । स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुतिकर्णयोः इति रभसः । श्रवणेन युक्ता पौर्णमासी श्रवणा । लुबविशेषे (४.२.४) इति प्राप्तो लुब् यद्यपि पौर्णमास्यां नेष्यते इत्युत्सर्गः । विभाषा फाल्गुनी- (४.२२३) इति लिङ्गात् । तथापि श्रवणशब्दादिष्यत एव । तत्रैव (४.२.२३) सूत्रे श्रवणा इति निर्देशात् । ‘अबाधकान्यपि निपातनानि’ इति श्रावणी इत्यपि । ततः 'सास्मिन्’ (४.२.२१) इत्यणि श्रावण: । श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता’ इति हैमः ।