ज्यैष्ठः

सुधाव्याख्या

पूर्ववदण्द्वयेन ज्यैष्ठः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावे ज्येष्ठोऽपि । 'ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका ’ इति त्रिकाण्डशेषः । (‘ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः । ज्येष्ठा मे गृहगोधिकायाम्’)