नभः

सुधाव्याख्या

विरहिणो नभ्यति, नभ्नाति, नभते, वा नभाः । ‘णभ हिंसायाम्' (भ्वा० प० से०, दि० प० से०, क्र्या० आ० से०) । असुन् (उ० ४.१८९) । स्वामी तु - न भासते मेघच्छत्रत्वात् - इत्याह । तन्न । नभासौ नभासः, नभाभ्याम्, नभाभिः, नभा:सु, इत्यादिरूपप्रसङ्गात् । ‘नभः खं श्रावणो नभाः’ इत्यनुपपत्तेश्च । ह्रस्वदीर्घोपधयोः शब्दभेदात् । भासते इत्यर्थकथनमात्रम् इत्यभिप्रेत्य ‘भस दीप्तौ’ (जु० प० से०) इति जुहोत्यादे ‘न बभस्ति’ इति व्युत्पत्त्याश्रयणे तु 'अत्वसन्तस्य-’ (६.४.१४) इति दीर्घो न स्यात् । धनुर्धरे त्रिषु नभाः क्लीबं व्योम्नि पुमाङ्गने । घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे' ॥