पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्य: फाल्गुनिक: स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | पौष | पौषः | पुंलिङ्गः | पुष्येण युक्ता पौर्णमास्यस्मिन् । | अण् | तद्धितः | अकारान्तः |
2 | तैष | तैषः | पुंलिङ्गः | तिष्येण युक्ता पौर्णमास्यस्मिन् । | अण् | तद्धितः | अकारान्तः |
3 | सहस्य | सहस्यः | पुंलिङ्गः | सहसि बले साधुः । | यत् | तद्धितः | अकारान्तः |
4 | तपस् | तपः | पुंलिङ्गः | तपन्त्यस्मिन् । | असुन् | उणादिः | सकारान्तः |
5 | माघ | माघः | पुंलिङ्गः | मघया युक्ता पौर्णमास्यस्मिन् । | अण् | तद्धितः | अकारान्तः |
6 | फाल्गुन | फाल्गुनः | पुंलिङ्गः | फलति निष्पादयति । | उनन् | उणादिः | अकारान्तः |
7 | तपस्य | तपस्यः | पुंलिङ्गः | तपसि साधुः । | यत् | तद्धितः | अकारान्तः |
8 | फाल्गुनिक | फाल्गुनिकः | पुंलिङ्गः | फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । | ठक् | तद्धितः | अकारान्तः |
9 | चैत्र | चैत्रः | पुंलिङ्गः | चित्रया युक्ता पौर्णमास्यस्मिन् । | अण् | तद्धितः | अकारान्तः |
10 | चैत्रिक | चैत्रिकः | पुंलिङ्गः | चित्रया युक्ता पौर्णमास्यस्मिन् । | ठक् | तद्धितः | अकारान्तः |
11 | मधु | मधुः | पुंलिङ्गः | मन्यते एतं मधुः । | उ | उणादिः | उकारान्तः |