पौषः

सुधाव्याख्या

पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । नक्षत्रेण- (४.२.३) इत्यण् । तिष्यपुष्ययोर्नक्षत्राणि यलोपः (वा० ६.४.१४९) । डीप् (४.१.१५) । तत: ‘सास्मिन् (४.२.२१) इत्यण् । (‘पौषो मासप्रभेदे स्यात्पोषं तु महयुद्धयोः)