मधुः

सुधाव्याख्या

मन्यते एतं मधुः । ‘मन ज्ञाने (दि० आ० अ०) । ‘फलिपाटि-' (उ० १.१८) इत्युधश्चान्तादेशः । ‘मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति ।